10.40

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥
nānto'sti mama divyānāṃ vibhūtīnāṃ parantapa |
eṣa tūddeśataḥ prokto vibhūtervistaro mayā ||
Sri Madhvacharya (1238–1317)Bhagavad Gita Tatparya Nirnaya
‘येषां विष्णुस्वरूपाणां सन्निधेरन्यवस्तुषु। विशिष्टत्वं स्वजातेः स्याद्विभूत्याख्यानि तानि तु। ब्रह्मनामा ब्रह्मगतः सर्वदैवतसञ्चयात्। आधिक्यहेतुर्भगवान् सामस्थः सामनामकः। आधिक्यहेतुर्वेदेभ्यस्तथाऽश्वत्थस्थितो हरिः। उत्कर्षहेतुर्वृक्षेभ्यो य एवाश्वत्थनामकः’ इत्यादि विभूतितत्त्वे। ‘केषु केषु च भावेषु’ इत्युक्तत्त्वाच्च ब्रह्मादिजीवेभ्योऽन्यदेव विभूतिरूपम्। ‘द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितम्। कपिलव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृतम्। भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापि तद्गतम्। स्वजात्याधिक्यं तेषां तत् तिरोहितवैभवम्’ इत्यादि च। ‘अत्माऽऽततगुणत्वेन रवज्ञेयो यतो रविः। उदवन्मेघचलनान्मरीचिः साम साम्यतः। सुखात् सुखत्वात् तु शशी वेदो वेदनतो हरिः। वासवर्ती वासवोऽसौ चेतोनेता तु चेतना। पालकैर्वननीयत्वात् पवनो भोदनान्मनः। पावकः शोधनान्मेरुरीरो यन्माऽस्य सागरः। सारस्य गरणात् स्कन्दो जगतः स्कन्दनाद् भृगुः। भर्जनाज्जपयज्ञश्च जातपो याज्य एव च। अश्वाकारस्थितोऽश्वत्थ ऐरं श्रीश्च तदाश्रयः । ऐरावतो नराणां यद् दद्यात् सर्वं स नारदः। ह्रीश्रीसमाश्रयत्वाच्च हिमालय इतीरितः। वर्ज्यत्वादरिभिर्वज्रो वैनतेयो नतास्पदः। वासुकिर्वाससुखदः कन्दर्पः सुखभेदपः। अर्यमा ज्ञेयमातृत्वात् कालः आकालनादपि। वरुणो वरणाद् द्वन्द्वो दिविरूपोऽन्तर्बहिर्युतः। मकरो मानकर्तृत्वाद् यमः संयमनाद्विभुः। प्रह्लादः महानन्दो मृगेन्द्रो मृगयत्पतिः। जाह्नवी जहतां स्थानमध्यात्मं चात्मनां पतिः। विद्याज्ञप्तिस्वरूपत्वाद् वादो वाच्यत्वतो हरिः। कीर्त्योवक्ताऽऽश्रयः कीर्तिर्वाक् श्रीरिति च नामतः। स्मरणीयः स्मृतिर्मेधाक्षमारूपस्तथेर्यते। द्यूतं क्रीडापरत्वाच्च गायत्री त्राति गायकान्। सत्त्वं साधुगुणत्वाच्च दण्डनाद्दण्ड उच्यते। ब्रहत्सारोऽप्यमेयश्च बृहत्सामोशनोशतेः। शुभाशुभज्ञानकरः कुसुमाकर ईरितः। ज्ञानं ज्ञानात्मतो मौनं मुनीड्यो नीतिरानयन्। मार्गाणामन्तगत्वात्तुमार्गशीर्षः प्रकीर्तितः। सुखं पिबन् लीलयैव कपिलो व्यास एव च। विशिष्टत्वाद् विष्णुनामा विशिष्टप्राणसौख्यतः। एवं नानागुणैर्विष्णुर्नानानामभिरीरितः। नानाप्राण्यादिसंस्थश्च विभूतिरिति शब्दितः। शश्यादिषु विजातीयस्वाम्यदः सारदः क्वचित्। शर्वादिषु सजातीयश्र्यैष्ठ्यदत्वेन संस्थितः। शक्रोशनार्जुनाद्येषु सजातीयैकदेशतः। देवेष्वभ्यधिको ब्रह्मा यतो विष्णोरनन्तरः। कवित्वादिगुणेष्वेवं यत्समो नास्तिकश्चन। तथा भीमश्य पार्थेषु ज्ञानं ज्ञेयेषु चोत्तमम्। सुदर्शनाश्चायुधेषु वेदेष्वृग्वेद एव च’ इत्यादि विभूतितत्त्वे॥11-37॥
Swami Sivananda (1887–1963)Bhagavad Gita
40. There is no end to My divine glories, O Arjuna, but this is a brief statement by Me of the particulars of My divine glories!
Bannanje Govindacharya (1936–2020)Bhagavad Gita Pravachana
ನ ಅಂತಃ ಅಸ್ತಿ ಮಮ ದಿವ್ಯಾನಾಮ್‌ ವಿಭೂತೀನಾಮ್‌ ಪರಂತಪ | ಏಷಃ ತು ಉದ್ದೇಶತಃ ಪ್ರೋಕ್ತಃ ವಿಭೂತೇಃ ವಿಸ್ತರಃ ಮಯಾ-ಓ ಪರಂತಪಾ, ನನ್ನ ದಿವ್ಯರೂಪಗಳ ಹಿರಿಮೆಗಳಿಗೆ ಕೊನೆಯಿಲ್ಲ. ನನ್ನ ಹಿರಿಮೆಯ ಬಿತ್ತರದ ಕೆಲವನ್ನಷ್ಟೇ ಇಲ್ಲಿ ಹೆಸರಿಸಿ ಹೇಳಿದೆ. ಕೃಷ್ಣ ಹೇಳುತ್ತಾನೆ: “ನನ್ನ ವಿಭೂತಿ ಪ್ರಪಂಚದಲ್ಲಿರುವ ಪ್ರತಿಯೊಂದು ವಸ್ತುವಿನಲ್ಲೂ ಇದೆ. ಅದನ್ನು ಹೇಳಿ ಕೊನೆ ಇಲ್ಲ” ಎಂದು. ಲೋಕವಿಲಕ್ಷಣವಾದ ಭಗವಂತನ ವಿಭೂತಿಗೆ ಕೊನೆ ಇಲ್ಲ. ಅದನ್ನು ಹೇಳಿ ಮುಗಿಯುವುದಿಲ್ಲ. ಇಲ್ಲಿ ಕೃಷ್ಣ ಅತ್ಯಂತ ಮುಖ್ಯವಾದ, ನಾವು. ನಿರಂತರ ಉಪಾಸನೆ. ಮಾಡಬೇಕಾದ, ನಿತ್ಯ ಅನುಸಂಧಾನದಲ್ಲಿರಬೇಕಾದುದ್ದನ್ನು ಹೇಳಿದ್ದಾನೆ ಅಷ್ಟೆ.
Bibek Debroy (1955–2024)The Bhagavad Gita
(40) ‘O scorcher of foes!70 There is no end to my divine glory. Whatever I have stated of this expanse of glory is only a brief indication.’