सञ्जय उवाच ।
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥
sañjaya uvāca |
evamuktvā tato rājanmahāyogeśvaro hariḥ |
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ||
Sri Madhvacharya (1238–1317)Bhagavad Gita Tatparya Nirnaya
‘आत्मानमव्ययम्’ परमं रूपमैश्वरम्’
‘सर्वाश्चर्यमयं देवमनन्तम् विश्वतोमुखम्’
इत्यादिरूपविशेषणाच्च रूपस्येश्वरसाक्षात्स्वरूपत्वम् नित्यत्वं तत एव चिदानन्दाद्यात्मकत्वं च
सिद्धम्। ‘मम देहे’ इत्युक्तत्वाच्चादित्यादीनां भेदः सिद्धः। ‘मे रूपाणि’ ‘सर्वतोऽनन्तरूपम्’
‘द्रष्टुमिच्छामि ते रूपम्’ इत्यादेश्चैकस्यैवाभिन्नानन्तरूपत्वं च।
‘एकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः।
बहुसङ्ख्यागोचरं च विशेषादेव केवलम्।
अभावो यत्र भेदस्य प्रमाणावसितो भवेत्।
विशेषो नामा तत्रैव विशेषव्यवहारवान्।
विशेषोऽपि स्वरूपं स स्वनिर्वाहक एव च।
द्रव्यात्मना स नित्योऽपि विशेषात्मैव जायते।
नित्या एव विशेषाश्च केचिदेवं द्विधैव सः।
वस्तुस्वरूपमस्त्येवेत्येवमादिष्वभेदिनः।
विशेषोऽनुभवादेव ज्ञायते सर्ववस्तुषु।
न चाविशेषितं किञ्चिद् वाच्यं लक्ष्यं तथा मितम्।
विशिष्टस्य स्वतोऽन्यत्वे स्वस्यामेयत्वहेतुतः।
नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत्।
स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम्।
न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः।
अभेदे न विरोधोऽस्ति ज्ञाताज्ञातं यतोऽखिलम्।
तदेव ज्ञातरूपेण ज्ञातमज्ञातमन्यथा।
अभिन्नस्य विशिष्टत्वान्न दोषद्वयमप्युत।
एकत्वानुभवाच्चैव विशेषानुभवादपि।
तज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः।
भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषणे।
मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित्।
भेदो विशेषणस्यापि नान्तरस्य क्वचिद्भवेत्।
शुद्धस्वरूप इत्यादावभेदस्यैव दर्शनात्।
अपृथग्दृष्टिनियमाद्बलज्ञानादिकस्य च।
ऐक्यं बाह्यविशेषाणां पृथग्दृष्ट्यैव तन्न तु।
विशेषहेत्वभावेऽपि द्वैविध्यं कल्प्यते यदि।
कल्पनागौरवाद्यास्तुदोषास्तत्रातिसङ्गताः।
नैकत्वं नापि नानात्वं नियमादस्त्यचेतने।
भेदाभेदावनुभवादतस्तत्रान्यथागतेः।
एकोऽहमन्यतोऽन्यश्चेत्येवमेव व्यवस्थितौ।
भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता।
एकमित्येव यज्ज्ञातं बहुत्वेनैव तत् पुनः।
पटाद्यं ज्ञायते यस्माद्भेदाभेदौ कुतो न तत्।
तन्तुभ्योऽन्यः पटः साक्षात् कस्य दृष्टिपथं गतः।
अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत्।
न चात्मनि विशेषोऽत्र दृष्टान्तत्वं गमिष्यति।
शुद्धोऽहंप्रत्ययो यस्मात् तत्राभेदप्रदर्शकः।
अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः।
न चानवयवं वस्तुक्वचित् स्यान्मानगोचरम्।
पूर्वापरादिभेदेन यतोंऽशोस्यावगम्यते।
उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि।
ज्ञापयेद्भेदमखिलं ग्रसन् स विभजेत् कथम्।
तस्माद् गुणादिकमपि नास्त्यनंशतया क्वचित्।
भावाभावव्यवहृतेर्विद्यमानेऽपि वस्तुनि।
भेदाभेदौ गुणादेश्च जडे वस्तुनि संस्थितौ।
चेतने शक्तिरूपेण गुणादेर्भाव इष्यते।
सुप्तोऽयं बलवान् विद्वानित्यादिव्यवहारतः।
न चैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित्।
एकमेवाद्वितीयं तन्नेह नानाऽस्ति किञ्चन।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति।
इत्यादिश्रुतिमानाच्च परमैश्वर्यतस्तथा।
सर्वं तु घटिते विष्णौ यत् कल्याणगुणात्मकम्’
इत्यदि ब्रह्मतर्के॥09॥
Swami Sivananda (1887–1963)Bhagavad Gita
9. Having thus spoken, O king, the great Lord of Yoga, Hari (Krishna), showed to Arjuna
His supreme form as the Lord!
Bannanje Govindacharya (1936–2020)Bhagavad Gita Pravachana
ಸಂಜಯಃ ಉವಾಚ-ಸಂಜಯ ಹೇಳಿದನು:
ಏವಮ್ ಉಕ್ತ್ವಾ ತತಃ ರಾಜನ್ ಮಹಾಯೋಗೇಶ್ವರೋ ಹರಿಃ |
ದರ್ಶಯಾಮ್ ಆಸ ಪಾರ್ಥಾಯ ಪರಮಮ್ ರೂಪಮ್ ಐಶ್ವರಮ್ -ಅರಸನೇ, ಹಿರಿಯ ಶಕ್ತಿಗಳ ಒಡೆಯನಾದ
ಹರಿ ಹೀಗೆ ನುಡಿದು, ಅರ್ಜುನನಿಗೆ ತೋರಿಸಿದನು ಜಗವನಾಳುವ ಹಿರಿಯ ರೂಪವನ್ನು.
ವ್ಯಾಸರಿಂದ ದಿವ್ಯ ದೃಷ್ಟಿ ಪಡೆದು, ಯುದ್ಧರಂಗದಲ್ಲಿ ನಡೆಯುತ್ತಿರುವ ಘಟನೆಗಳ ವಿವರಣೆಯನ್ನು ಧೃತರಾಷ್ಟ್ರನಿಗೆ
ಕೊಡುತ್ತಿರುವ ಸಂಜಯ ಕೂಡಾ ಭಗವಂತನ ವಿಶ್ವರೂಪವನ್ನು ಕಾಣುತ್ತಾನೆ. ಆತ ಧೃತರಾಷ್ಟ್ರನಲ್ಲಿ ಹೇಳುತ್ತಾನೆ:
“ಓ ರಾಜನ್, ಈ ರೀತಿ ಹೇಳಿ ಮಹಾಯೋಗೇಶ್ವರ ಹರಿಯು ತನ್ನ ಹಿರಿಯರೂಪವನ್ನು ತೋರಿದನು” ಎಂದು.
ಇಲ್ಲಿ ಬಳಕೆಯಾಗಿರುವ ‘BS ಅನ್ನುವ ಪದ ಈ ಶ್ಲೋಕದಲ್ಲಿ ವಿಶೇಷ ಅರ್ಥವನ್ನು ಕೊಡುತ್ತದೆ. ಅರ್ಜುನನು ದಿವ್ಯ
ದೃಷ್ಟಿ ಸಂಪನ್ನನಾದ್ದರಿಂದ; ದಿವ್ಯರೂಪ ದರ್ಶನ ನೋಡುವ ಅಧಿಕಾರ ಸಂಪನ್ನನಾದ್ದರಿಂದ; ಎಲ್ಲಾ ಕಡೆ
ತುಂಬಿರುವ ಭಗವಂತ, ತನ್ನ ವಿಶ್ವರೂಪವನ್ನು ಆತನಿಗೆ ತೋರಿದ-ಎನ್ನುವ ಭಾವವನ್ನು ಈ ಪದ ಕೊಡುತ್ತದೆ.
ಬ್ರಹ್ಮಾದಿ ಸರ್ವ ದೇವತೆಗಳಿಗೂ ಒಡೆಯನಾದ ಭಗವಂತನನ್ನು ಸಂಜಯ ಇಲ್ಲಿ ಮಹಾಯೋಗೇಶ್ವರಃ ಎಂದು
ಸಂಬೋಧಿಸಿದ್ದಾನೆ. ಇಲ್ಲಿ ಬಳಸಿರುವ BO ಎನ್ನುವ ಪದ ಭಗವಂತನ ಸರ್ವಗತತ್ವವನ್ನು ವಿವರಿಸುವ ಪದ
ಯಾರು ಯಾವ ದೇವತಾ ಮುಖದಲ್ಲಿ ಆಹುತಿ ಕೊಟ್ಟರೂ ಅದನ್ನು ಮೊದಲು ಪಡೆಯುವ ಭಗವಂತ ಹರಿಃ.
ಮುಂದಿನ ಶ್ಲೋಕದಲ್ಲಿ ಸಂಜಯ ತಾನು ಕಂಡ ಭಗವಂತನ ವಿಶ್ವರೂಪದ ವರ್ಣನೆ ಮಾಡುತ್ತಾನೆ.
Bibek Debroy (1955–2024)The Bhagavad Gita
(9)
Sanjaya said:
O King!12 Having said this, Hari,13 the great lord of yoga, then showed
Partha14 the divine and supreme form.