अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥
anye tvevamajānantaḥ śrutvānyebhya upāsate |
te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ||
Sri Madhvacharya (1238–1317)Bhagavad Gita Tatparya Nirnaya
13.26–13.27
‘अनादियोग्यताभेदात् पुंसां दर्शनसाधनम्।
नानैव तत्र विष्णोस्तु प्रसादाद् वैष्णवं वपुः।
स्वयं विज्ञायते किञ्चित् श्रूयते किञ्चिदन्यतः।
तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचन।
ऋषयः केचिदृषयो नारदाद्या बहिस्त्वपि।
देवा विष्णुप्रसादेन लब्धसत्प्रतिभाबलात्।
सर्वं क्रमेण विज्ञाय प्रतिभास्पष्टताक्रमात्।
पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेऽपि तु।
येषां ध्यानमृते दृष्टिस्तेषां ध्यानेऽपि दर्शनम्।
स्यादेव साङ्ख्ययोगास्ते देवा ब्रह्माऽधिकोऽत्र च।
केचित् तु क्षत्रियवरा अश्वमेधादिकर्मभिः।
यजन्तो भक्तिमन्तश्च यज्ञभागार्थमागतम्।
श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम्।
पश्यन्त्यन्ये तथाऽन्येभ्यः सर्वं श्रुत्वाऽनुमत्य च।
उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन।
ऋषीन् राज्ञस्तथाऽऽरभ्य प्रतिभाऽभ्यधिका क्रमात्।
यावद्ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम्।
विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः।
अन्येषां श्रवणज्ञानं क्रमशो मानुषोत्तरम्।
अत्यल्पप्रतिभानत्वान्मानुषाः श्रुतवेदिनः।
सर्वे ते दर्शनात् तस्मात् स्वयोग्यान्मुक्तिगामिनः’ इति च
अन्येषामपि किञ्चिच्छ्रवणे विद्यमानेऽपि मनुष्याणामल्पप्रतिभानत्वात् ‘श्रुत्वान्येभ्यः’ इति
विशेषणम्। मनुष्याणां प्रतिभामूलप्रमाणापेक्षा प्रायो न सम्यगुत्पद्यतेऽल्पाचेति ‘श्रुतिपरायणाः’ इति।
‘अश्रुतप्रतिभा यस्य श्रुतिस्मृत्यविरोधिनी।
विश्रुता नृषु जातं च तं विद्याद्देवसत्तमम्।
यश्च स्वमुखमानेन नवाधोदेहवान् पुमान्।
अष्टमानवती स्त्री च षण्णवत्यङ्गुलौ पुनः।
दशतालौ सप्तपादौ विद्यात् तौ च सुरोत्तमौ।
यावत् पञ्चाङ्गुलोनं तद्देवमानं क्रमात् परम्।
पादे त्वङ्गुलमात्रोनं तदीनं चतुरङ्गुलम्।
यावद्देवोपदेवानां पादे चोनाङ्गुलं पुनः
तावन्मनुष्यमानं स्यात् ततोऽधस्त्वासुरं स्मृतम्।
द्विचत्वार्याधिकं तस्मात् षण्णवत्यङ्गुलादधः।
ज्ञेयमङ्गुलमानं तदुपदेवादिषु स्फुटम्।
देवेष्ववरवज्ज्ञेयमृषीणां चक्रवर्तिनाम्।
यावद् यावत् प्रियो विष्णोस्तावत् स्त्रीपुंस्वरूपिणः।
हरेः सादृश्यमस्य स्यादनादिक्रमसुस्थिरम्’ इति च॥25-26॥
Swami Sivananda (1887–1963)Bhagavad Gita
26. Others also, not knowing thus, worship, having heard of it from others; they, too, cross
beyond death, regarding what they have heard as the supreme refuge.
Bannanje Govindacharya (1936–2020)Bhagavad Gita Pravachana
ಅನ್ಯೇ ತು ಏವಂ ಅಜಾನಂತಃ ಶ್ರುತ್ವಾ ಅನ್ಯೇಭ್ಯಃ ಉಪಾಸತೇ |
ತೇ ಅಪಿ ಚ ಅತಿತರಂತಿ ಏವ ಮೃತ್ಯುಮ್ ಶ್ರುತಿಪರಾಯಣಾಃ -ಹೀಗೆ ಭಗವಂತನನ್ನರಿಯಲಾರದ ಇನ್ನು
ಕೆಲವರು ಬಲ್ಲವರಿಂದ ಕೇಳಿ ಉಪಾಸನೆ ಮಾಡುತ್ತಾರೆ. ಶ್ರವಣವನ್ನೇ ನಂಬಿ ನಡೆವ ಅವರೂ ಸಾಧನೆಯಿಂದ
ಬೆಳೆದು ಸಾವನ್ನು ಗೆಲ್ಲುತ್ತಾರೆ.
ಜನಸಾಮಾನ್ಯರು, ಮೇಲಿನ ಯಾವ ವಿಧದಲ್ಲೂ ಸಾಧನೆ ಮಾಡಲಾರದವರು-ಇನ್ನೊಬ್ಬರಿಂದ ಕೇಳಿ ತಿಳಿದು
ಸಾಧನೆಯ ಮೊದಲ ಮೆಟ್ಟಿಲನ್ನು ಹತ್ತಬಲ್ಲರು. ಇದು ಸಾಧನೆಯ ಮಾರ್ಗದಲ್ಲಿನ ಅತ್ಯಂತ ಕೆಳಗಿನ
ಮೆಟ್ಟಿಲಾದರೂ ಸಹ, ಇವರು ನಿರಂತರ ಶ್ರವಣ, ಮನನ, ನಿಧಿಧ್ಯಾಸನದಿಂದ, ಅಹಂಕಾರವಿಲ್ಲದೆ, ಜ್ಞಾನ
ಸಂಪಾದಿಸಿ, ಆ ಜ್ಞಾನದಿಂದ-ಧ್ಯಾನದಲ್ಲಿ ಭಗವಂತನನ್ನು ಕಾಣಬಲ್ಲರು. ಇದು ಸಾಮಾನ್ಯ ಮಾನವನಿಗೆ ಕೃಷ್ಣ
ತೋರಿಸಿದ ಮೋಕ್ಷ ಮಾರ್ಗ. ಹೀಗೆ ಇವರು ಶ್ರವಣ ಮತ್ತು ಉಪಾಸನೆಯಿಂದ ಮೃತ್ಯುವನ್ನು ಗೆದ್ದು
ಭಗವಂತನನ್ನು ಸೇರಬಲ್ಲರು.
Bibek Debroy (1955–2024)The Bhagavad Gita
(25)
‘And others, failing to know,38 hear from others and worship. Even they,
who are devoted to hearing, transcend death.’