13.27

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥
yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam |
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ||
Sri Madhvacharya (1238–1317)Bhagavad Gita Tatparya Nirnaya
13.26–13.27
‘अनादियोग्यताभेदात् पुंसां दर्शनसाधनम्। नानैव तत्र विष्णोस्तु प्रसादाद् वैष्णवं वपुः। स्वयं विज्ञायते किञ्चित् श्रूयते किञ्चिदन्यतः। तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचन। ऋषयः केचिदृषयो नारदाद्या बहिस्त्वपि। देवा विष्णुप्रसादेन लब्धसत्प्रतिभाबलात्। सर्वं क्रमेण विज्ञाय प्रतिभास्पष्टताक्रमात्। पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेऽपि तु। येषां ध्यानमृते दृष्टिस्तेषां ध्यानेऽपि दर्शनम्। स्यादेव साङ्ख्ययोगास्ते देवा ब्रह्माऽधिकोऽत्र च। केचित् तु क्षत्रियवरा अश्वमेधादिकर्मभिः। यजन्तो भक्तिमन्तश्च यज्ञभागार्थमागतम्। श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम्। पश्यन्त्यन्ये तथाऽन्येभ्यः सर्वं श्रुत्वाऽनुमत्य च। उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन। ऋषीन् राज्ञस्तथाऽऽरभ्य प्रतिभाऽभ्यधिका क्रमात्। यावद्ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम्। विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः। अन्येषां श्रवणज्ञानं क्रमशो मानुषोत्तरम्। अत्यल्पप्रतिभानत्वान्मानुषाः श्रुतवेदिनः। सर्वे ते दर्शनात् तस्मात् स्वयोग्यान्मुक्तिगामिनः’ इति च अन्येषामपि किञ्चिच्छ्रवणे विद्यमानेऽपि मनुष्याणामल्पप्रतिभानत्वात् ‘श्रुत्वान्येभ्यः’ इति विशेषणम्। मनुष्याणां प्रतिभामूलप्रमाणापेक्षा प्रायो न सम्यगुत्पद्यतेऽल्पाचेति ‘श्रुतिपरायणाः’ इति। ‘अश्रुतप्रतिभा यस्य श्रुतिस्मृत्यविरोधिनी। विश्रुता नृषु जातं च तं विद्याद्देवसत्तमम्। यश्च स्वमुखमानेन नवाधोदेहवान् पुमान्। अष्टमानवती स्त्री च षण्णवत्यङ्गुलौ पुनः। दशतालौ सप्तपादौ विद्यात् तौ च सुरोत्तमौ। यावत् पञ्चाङ्गुलोनं तद्देवमानं क्रमात् परम्। पादे त्वङ्गुलमात्रोनं तदीनं चतुरङ्गुलम्। यावद्देवोपदेवानां पादे चोनाङ्गुलं पुनः तावन्मनुष्यमानं स्यात् ततोऽधस्त्वासुरं स्मृतम्। द्विचत्वार्याधिकं तस्मात् षण्णवत्यङ्गुलादधः। ज्ञेयमङ्गुलमानं तदुपदेवादिषु स्फुटम्। देवेष्ववरवज्ज्ञेयमृषीणां चक्रवर्तिनाम्। यावद् यावत् प्रियो विष्णोस्तावत् स्त्रीपुंस्वरूपिणः। हरेः सादृश्यमस्य स्यादनादिक्रमसुस्थिरम्’ इति च॥25-26॥
‘क्षेत्रक्षेत्रज्ञसंयोगात्’ - इत्यत्र क्षेत्रं श्रीः - ‘मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्’ - इति वक्ष्यमाणत्वात्। ‘अव्यक्तं च महद्ब्रह्म प्रधानं क्षेत्रमित्यपि। उच्यते श्रीः सदा विष्णोः प्रिया निर्दोषचिद्घना। सा हि न व्यज्यते विष्णुरत्र क्षेति महागुणा। जीवोत्तमा च तेनैतैः शब्दैरेकाऽभिधीयते। महान् ब्रह्मा जीवमहान् परमात् प्रेरिताः क्रियाः। अहं कर्तेति येनायं जीवो मंस्यत्यसौ शिवः। अहङ्कार इति प्रोक्तो जीवाहंकृतिकृद् यतः। उमा बुद्धिरिति ज्ञेया शब्दादिज्ञानदा यतः। मतिदो मन उद्दिष्ट इन्द्रः स्कन्दोऽपि तत्सुतः। श्रोत्रं तु श्रावयंश्चन्द्रः स्पर्शो वायुसुतो मरुत्। चक्षुः सूर्यश्चक्षयति जिह्वा वारिपतिर्हृतेः। अश्विनौ घ्राणमाघ्रातेर्वागग्निर्वचनादपि। हस्तौ वायुसुतौ ज्ञेयौ मरुतौ हानिलाभयोः। पादौ तु विष्णुनाऽऽविष्टौ यज्ञशम्भो शचीसुतौ। पदनादेव पायुश्च भुक्तस्यैवाप्ययाद् यमः। सन्तत्युपस्थितिकृतेरुपस्थ सशिवो मनुः। विनायकस्तथाऽऽकाशो निरावृत्या प्रकाशनात्। प्रधानवायुजो भूतवायुर्नाम्ना मरीचिकः। अग्निश्च पृथिवी चैव प्रसिद्धौ वरुणो जलम्। अदनात् प्रथनाज्जन्मलयहेतोस्तथाऽभिधाः। शब्दाद्याः पञ्च शिवजाः शब्दनात् स्पर्शनादपि। रूपणाद् रसनाच्चैव गन्धनाच्च तथाऽभिदा। सुखं धृतिश्चेतना च सुखनाद् विधृतेरपि। चेतोनेतृत्वतश्चैव मुख्यवायुः सरस्वती। श्रीश्चेच्छा चैव सा वायोः पत्नी त्वेवं धृतिर्मता। इच्छादानात् तु सैवेच्छा स्थानभेदात् तु देवताः। पृथक् पृथक् च कथ्यन्ते लक्ष्म्याद्या उदिता अपि। दुःखद्वेषौ कलिश्चैव द्वापरो ब्रह्मणः सुतौ। प्रवरावसुराणां तौ सङ्घातश्चेतनाः परे। एतैरभिमतं यच्च तत्तन्नाम्नाऽभिधीयते। चेतनाचेतनं त्वेतत् सर्वं क्षेत्रमितीरितम्। क्षितिरेतद् भगवतो यदतः क्षेत्रमीर्यते। क्षीणोति त्राति चैवैतत् सोऽतो वा क्षेत्रमुच्यते। क्षितिं कृत्वा त्रातिचैतदतो वा क्षेत्रमीरितम्। एतस्मात् क्षीणमेतेन त्रातमित्यथवा पुनः। इच्छाद्यानां क्षेत्रनाम्नामपि नामान्तरं स्मृतम्। विकारा इति यस्मात् ते विशेषविकृतिस्थिताः। विशेषात् क्रियते यस्माद् विकारः कार्यमन्तिमम्। विगतं करणं वाऽत्र पुनर्नाशमृते यतः। तत्सम्बन्धाद् विकाराख्या इच्छाद्या अभिमानिनः। एतत् सर्वं सर्वदैव निर्दोषेणैव चक्षुषा। प्रेरयन्नेव जानाति तत् क्षेत्रज्ञो हरिस्ततः’ इति च ‘यस्यात्मा शरीरम्’ इत्यादिश्रुतेश्चेतनस्यापि ‘इदं शरीरं कौन्तेय’ इति शरीरत्वोक्तिर्युज्यते। ‘सत्त्वं जीवः क्वचित् प्रोक्तः क्वचित् सत्त्वं जनार्दनः। सत्त्वं नाम गुणः क्वापि क्वचित् साधुत्वमुच्यते’ इति शब्दनिर्णये। ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्’ इति च पैङ्गीश्रुतिः। ‘जनी प्रादुर्भावे ‘ इति धातोर्जीवस्यापि शरीरे व्यक्त्यपेक्षया जनिर्युज्यते॥26॥
Swami Sivananda (1887–1963)Bhagavad Gita
27. Wherever a being is born, whether it be unmoving or moving, know thou, O best of the Bharatas (Arjuna), that it is from the union between the Field and its Knower.
Bannanje Govindacharya (1936–2020)Bhagavad Gita Pravachana
ಯಾವತ್‌ ಸಂಜಾಯತೇ ಕಿಂಚಿತ್‌ ಸತ್ವಮ್‌ ಸ್ಥಾವರ ಜಂಗಮಮ್‌ | ಕ್ಷೇತ್ರ ಕ್ಷೇತ್ರಜ್ಞ ಸಂಯೋಗಾತ್‌ ತತ್‌ ವಿದ್ಧಿ ಭರತರ್ಷಭ -- ಭರತರ್ಷಭಾ, ಸ್ಥಿರ-ಚರ ಜೀವಿಯಲ್ಲಿ ಯಾವುದು ಹುಟ್ಟಿ ದರೂ ಅದು ಕ್ಷೇತ್ರ!ಶ್ರೀತತ್ವ] ಮತ್ತು ಕ್ಷೇತ್ರಜ್ಞನಾದ ಭಗವಂತನ ಸಹಯೋಗದಿಂದಲೇ ಎಂದು ತಿಳಿ. ಈ ಪ್ರಪಂಚದಲ್ಲಿ ಏನೆಲ್ಲಾ ಹುಟ್ಟುತ್ತದೋ, ಚಲಿಸುವ-ಚಲಿಸದಿರುವ ಸಮಸ್ತ ಜೀವ ಜಡಾತ್ಮಕ ಪ್ರಪಂಚ ಮತ್ತು ಅದರ ಅಭಿಮಾನಿನಿಯಾದ ಪ್ರಕೃತಿದೇವಿ-ಇಷ್ಟನ್ನು ಒಟ್ಟಿಗೆ ಕ್ಷೇತ್ರವೆನ್ನುತ್ತಾರೆ. ಇವೆಲ್ಲವನ್ನು ಬಲ್ಲವ ಕ್ಷೇತ್ರಜ್ಞನಾದ ಭಗವಂತ. ಆದ್ದರಿಂದ ಕ್ಷೇತ್ರವೆಂದರೆ ಭಗವಂತನಿಂದ ನಿರ್ಮಾಣವಾದ ಸಮಸ್ತ ಜೀವ ಜಡಾತ್ಮಕ ಪ್ರಪಂಚ. ಸಮಸ್ತ ಸೃಷ್ಟಿ ಲಕ್ಷ್ಮೀ ನಾರಾಯಣರ ಸಮಾಗಮದಿಂದ ನಿರ್ಮಾಣವಾಯಿತು. ಅವರು ಈ ಪ್ರಪಂಚದ ಮೊದಲ ದಂಪತಿಗಳು. ಆದ್ದರಿಂದ ಎಲ್ಲರ ತಂದೆ ತಾಯಿ ನಾರಾಯಣ ಮತ್ತು ಶ್ರೀಲಕ್ಷ್ಮೆ. “ಇದನ್ನು ತಿಳಿದಾಗ ನೀನು ನಿಜವಾದ ಭರತರ್ಷಭನಾಗುತ್ತೀಯ” ಎನ್ನುತ್ತಾನೆ ಕೃಷ್ಣ. ಭಗವಂತನಲ್ಲಿ ರಥನಾದವನು, ಭಗವಂತನಲ್ಲಿ ಪೂರ್ಣಭಕ್ತಿ ಉಳ್ಳವನು ಭರತರ್ಷಭ.
Bibek Debroy (1955–2024)The Bhagavad Gita
(26) ‘O best of the Bharatas!39 Whatever movable and immovable objects are created, know them to result from the link between kshetra and kshetrajna.’