अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ ||
Sri Madhvacharya (1238–1317)Bhagavad Gita Tatparya Nirnaya
अच्छेद्यत्वादिकं जीवस्यापि तत्सममित्याह - अच्छेद्योऽयमिति। नित्यं सर्वगते स्थितिः
अणुश्चायमिति सर्वगतस्थाणुः। सर्वगतो विष्णुस्तधीनत्वादिकं तत्स्थत्वम्। हेतुतोऽपि तत्स्थत्वान्न
चलतीत्यचलः। नादेन शब्देन सह वर्तत इति सनादन एव सनातनः।
‘नित्यं सर्वगते विष्णावणुर्जीवो व्यवस्थितः।
न चास्य तदधीनत्वं हेतुतोऽपि विचाल्यते।
निषेधविधिपात्रत्वात् सनातन इति स्मृतः’ इति महाविष्णुपुराणे।
अच्छेद्योऽयमित्यादिपुनरुक्तिश्चान्यथा। यस्मिन्नयं स्थितः सोऽव्यक्ताचिन्त्यादिरूपः। एवं ज्ञातः
परमेश्वरः सर्वदुखनाशं करोतीति नानुशोचितुमर्हसि। ‘तेषामहं समुद्धर्ता’ इत्यादेः।
‘न त्वेवाहं जातु नासं न त्वम्’ इत्युभयोरपि प्रस्तुतत्वात्।
देहिनः शरीरिणः देहीतिविशेषितत्वाच्च जीवस्य तत्र तत्र।
‘अविनाशि तु।’ ‘येन सर्वमिदं ततम्।’
‘अनाशिनोऽप्रमेयस्य। ‘न म्रियते ’
‘भूत्वा भविता न।’ ‘अविनाशिनम्। ‘ ‘अव्ययम्’।
‘अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयम् ‘ -इत्यादि परमात्मनश्च।
न हि जीवेन ततं सर्वम्। न च मुख्यतोऽप्रमोयोऽसौ। न च न म्रियते। न चाविनाशिनं नित्यमिति
नित्यत्वातिरिक्तमविनाशित्वं तस्य। न चाव्यक्तत्वमविकार्यत्वं च मुख्यम्। न च भूत्वा भविता वा नेति
देहस्याप्यनुत्पत्तिः। परमात्मनस्तु देहवियोगादिकमपि नास्तीत्यविनाशित्वित्यादि विशेषणम्।
यस्मादेवंभूतस्तस्मात् स एव स्वतन्त्रः। तदधीनमन्यत् सर्वम्। अतः स एव सर्वपुरुषार्थदः।
अतस्तत्पूजा सत्कर्मैव। अतस्तदर्थं युध्यस्व। अन्येषां त्वन्तवन्त एव देहाः। प्राकृततदेहिनश्च।
अतोऽस्वतन्त्रत्वान्न हन्तुं तेषां सामर्थ्यम्। नित्यत्वान्न हन्यते च। तस्माद्धन्ता हत इति मन्यमानौ न
विजानीतः। यस्मादयमेव परमेश्वरः शरीरवियोगरूपेणापि न म्रियते तत्संयोगरूपेणापि न जायते
जीववत् कदापि। अतः स एव स्वतन्त्र्यत्वात् सर्वस्य हन्ता। जीवस्तु तेन शरीरे हन्यमाने स्वयं न
हन्यत इत्येतावत्। अत एवमविनाशित्वादेः स्वातन्त्र्यात् सर्वकर्तारं परमात्मानं यो वेद स कथं
घातयति हन्ति वा? वाससो जरावत् स्वशरीरजरादावस्वातन्त्र्यदर्शनात् सर्वत्रास्वातन्त्र्यं ज्ञातव्यं
जीवस्य। ईश्वरस्य तु देहस्यापि च्छेदादेरभावात् स्वातन्त्र्यम्। नैनं छिन्दन्तीति च्छेदनाद्यभावः
साक्षादेव दर्शयितुं शक्यते स्वदेहस्येति वर्तमानापदेशः। छेदानादिकं त्वीश्वरो मोहाय मृषैव
दर्शयति॥24॥
Swami Sivananda (1887–1963)Bhagavad Gita
24. This Self cannot be cut, burnt, wetted nor dried up. It is eternal, all-pervading, stable,
ancient and immovable.
Bannanje Govindacharya (1936–2020)Bhagavad Gita Pravachana
ಅಚ್ಛೇದ್ಯಃ ಅಯಮ್ ಅದಾಹ್ಯಃ ಅಯಮ್ ಅಕ್ಲೇದ್ಯಃ ಅಶೋಷ್ಯಃ ಏವ ಚ |
ನಿತ್ಯಃ ಸರ್ವಗತಃ ಸ್ಥಾಣು ಆಚಲಃ ಅಯಮ್ ಸನಾತನಃ -- ಈ ಜೀವನನ್ನು ಕಡಿಯಲಾಗದು. ಇವನನ್ನು
ಸುಡಲಾಗದು. ನೆನೆಸಲಾಗದು; ಒಣಗಿಸಲೂ ಆಗದು. ಎಂದೆಂದೂ ಎಲ್ಲೆಡೆ ಹಬ್ಬಿರುವ, ಏತರಿಂದಲೂ
ಮಾರ್ಪಡದ, ಅವಿಚಲನಾದ, ಪುರಾಣಪುರುಷನ ಪಡಿಯಚ್ಚು ಇವನು.[ಎಲ್ದೆಡೆ ಹಬ್ಬಿರುವ ಭಗವಂತನನ್ನು
ಎಂದೆಂದೂ ಹೊಂದಿರುವ ಅಣುರೂಪಿ. ಇವನು ಏತರಿಂದಲೂ ಮಾರ್ಪಡದ ನಿಯತಿಗೆ ಬದ್ಧ ; ವೇದದ ವಿಧಿ-
ನಿಷೇಧಗಳಿಗೆ ಕೂಡಾ].
ಜೀವನನ್ನು ಇಂದಲ್ಲ, ಮುಂದೆಂದೂ ಯಾರಿಂದಲೂ ನಾಶಮಾಡಲು ಸಾದ್ಯವಿಲ್ಲ. ಏಕೆಂದರೆ ಆತ ತನ್ನ
ಗುಣಧರ್ಮದಿಂದ ಎಂದೂ ಬದಲಾಗದ, ಸರ್ವಗತನಾದ, ವಿಚಲಿತನಾಗದ-ಭಗವಂತನ ಪಡಿಯಚ್ಚು. ಯಾವ
ಆಯುಧಕ್ಕೂ ನಿಲುಕದೆ ಎಲ್ಲಾ ಕಾಲದಲ್ಲೂ ಏಕರೂಪನಾಗಿರುವ, ಎಲ್ಲಾ ಕಡೆ ಸ್ಥಿರವಾದ, ಬದಲಾವಣೆ ಇಲ್ಲದೆ
ಇರುವ ಗುಣಧರ್ಮ ಜೀವನಿಗಿದೆ. ಜೀವ ಸನಾತನ. ಅಂದರೆ ನಾತನದಿಂದ ಸಹಿತನಾದವ. ಇಲ್ಲಿ 'ನಾತನ'
ಎಂದರೆ 'ನಾದನ'. ಅಂದರೆ ವೇದನಾದ. ಜೀವ ವೇದನಾದದಿಂದ ಸಹಿತನಾಗಿ, ಸಮಸ್ತ ವೇದ ಪ್ರತಿಪಾದ್ಯನಾದ
ಭಗವಂತನ ಮಡಿಲಲ್ಲಿ ವೇದದ ವಿಥಿ-ನಿಷೇಧಗಳಿಗೆ ಬದ್ಧನಾಗಿರುತ್ತಾನೆ. ಅದು ಸರ್ವಗತನಾದ ಭಗವಂತನನ್ನು
ಆಶ್ರಯಿಸಿರುವ ಮಹತ್ತಾದ ಅಣು.
Bibek Debroy (1955–2024)The Bhagavad Gita
(24)
‘This cannot be cut. This cannot be burnt. This cannot be wetted And this
cannot be dried. This is eternal and is everywhere. This is stable and does
not move. This has no beginning.’