2.25

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥
avyakto'yamacintyo'yamavikāryo'yamucyate |
tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||
Sri Madhvacharya (1238–1317)Bhagavad Gita Tatparya Nirnaya
सर्वगतश्चेत् परमात्मा किमिति तथ न दृश्यते इत्यतो वक्ति - अव्यक्तोऽयमिति। कथमेतद्युज्यते ? अचिन्त्यशक्तित्वात्। न च सा शक्तिः कदाचिदन्यथा भवति। अविकार्यत्वात्। यानि यान्यस्य रूपाणि तानि सर्वाण्यप्येवं भूतानीति दर्शयितुमेनमयमित्यादिपृथग्वचनम्। जीवे तु सर्वजीवेष्वनुगमार्थम्। सर्वं चैतत् श्रुतिसिद्धम्। ‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः। ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः।’ इति पैङ्गिश्रुतिः। ‘अदेहो देहवांश्चैकः प्रोच्यते परमेश्वरः। अप्राकृतशरीरत्वाददेह इति कथ्यते। शिरश्चरणबाह्वादिविग्रहोऽयं स्वयं हरिः। स्वस्मान्नान्यो विग्रहोऽस्य ततश्चादेह उच्यते। स्वयं स्वरूपवान् यस्माद्देहवांश्चोच्यते ततः। शिरश्चरणबाह्वादिः सुखज्ञानादिरूपकः। स च विष्णोर्न चान्योऽस्ति यस्मात् सोऽचिन्त्यशक्तिमान्। देहयोगवियोगादिस्ततो नास्य कथञ्चन। गुणरूपोऽपि भगवान् गुणभुक् च सदा स्मृतः। अहमित्यात्मभोगो यत् सर्वेषामनुभूयते। अभिन्नेऽपि विशेषोऽयं सदाऽनुभवगोचरः। विशेषोऽपि हि नान्योऽतः स च स्वस्यापि युज्यते। नानवस्था ततः क्वापि परमैश्वर्यतो हरेः। युक्तायुक्तत्वमपि हि यदधीनं सदेष्यते। प्रमाणावगते तत्र कुत एव ह्ययुक्तता’ इत्यादि परमश्रुतिः। ‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का। चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः’ इत्यादि च ऋग्वेदे सौपर्णशाखायाम्। ‘एकमेवाद्वितीयम्’ ‘नेह नानास्ति किञ्चन’। ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’। ‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति। एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति’ ‘मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि। तथैवावयवानां च भेदं पश्यति यः क्वचित्। भेदाभेदौ च यः पश्येत् स याति तम एव तु। पश्येदभेदमेवैषां बुभूषु पुरुषस्तत। अभेदेऽपि विशेषोऽस्ति व्यवहारस्ततो भवेत्। विशेषिणां विशेषस्य तथा भेदविशेषयोः। विशेषस्तु स एवायं नानवस्था ततः क्वचित्। प्रादुर्भावादिरूपेषु मूलरूपेषु सर्वशः। न विशेषोऽस्ति सामर्थ्ये गुणेष्वपि कदाचन। मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः। राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः। दत्तो धन्वन्तरिर्यज्ञः कपिलो हंसतापसौ। शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः। नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम्। ब्रह्मरुद्रौ शेषविपौ शक्राद्या नारदस्तथा। सनत्कुमारः कामभवोऽप्यनिरुद्धो विनायकः। सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः। इत्याद्या विष्णुनाऽऽविष्टा भिन्नाः संसारिणो हरेः। तेष्वेव लक्ष्मेणाद्येषु त्रिष्वेवं च बलादिषु। नरार्जुनादिषु तथा पुनरावेश उच्यते। स्वल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः। एतज्जानाति यस्तस्मिन् प्रीतिरभ्यधिका हरेः। सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम्’ इत्यादि महावाराहे॥25॥
Swami Sivananda (1887–1963)Bhagavad Gita
25. This (Self) is said to be unmanifested, unthinkable and unchangeable. Therefore, knowing This to be such, thou shouldst not grieve.
Bannanje Govindacharya (1936–2020)Bhagavad Gita Pravachana
ಅವ್ಯಕ್ತಃ ಅಯಮ್‌ ಅಚಿಂತ್ಯಃ ಅಯಮ್‌ ಅವಿಕಾರ್ಯಃ ಅಯಮ್‌ ಉಚ್ಯತೇ ತಸ್ಮಾತ್‌ ಏವಮ್‌ ವಿದಿತ್ವಾ ಏನಮ್‌ ನ ಅನುಶೋಚಿತುಮ್‌ ಅರ್ಹಸಿ -- ಭಗವಂತ ಕಣ್ಣಿಗೆ ಕಾಣದವನು; ಇವನು ಚಿಂತನೆಗೆ ನಿಲುಕದವನು; ಇವನು ಬದಲಾಗದವನು-ಎಂದು ವೇದ ಸಾರುತ್ತದೆ. ಅದರಿಂದ ಅವನ[ಮತ್ತು ಜೀವನ] ಪರಿಯನ್ನು ಹೀಗೆ ಅರಿತ ಮೇಲೆ ಕೊರಗುವುದು ತರವಲ್ಲ. ಭಗವಂತ ಅವ್ಯಕ್ತ. ಆತನ ಪ್ರತಿಬಿಂಬವಾದ ಜೀವ ಭೌತಿಕ ಶರೀರದಲ್ಲಿದ್ದರೂ ಕೂಡಾ ಅವ್ಯಕ್ತ. ಈ ಕಾರಣದಿಂದ ಭಗವಂತ ಹಾಗೂ ಜೀವ ನಮ್ಮ ಚಿಂತನೆಗೆ ನಿಲುಕದ್ದು. ನಾನು ಯಾರು? ಎಲ್ಲಿಂದ ಬಂದೆ ? ನಾನೇನು? ಎನ್ನುವುದೇ ನಮಗೆ ಗೊತ್ತಿಲ್ಲ. ಭಗವಂತ ಹಾಗೂ ಜೀವಸ್ವರೂಪ ಎಂದೂ ಬದಲಾಗದಿದ್ದರೂ ಕೂಡಾ, ಅದು ನಮ್ಮ ಚಿಂತನೆಗೆ ಎಟುಕುವುದಿಲ್ಲ. ಈ ಕಟು ಸತ್ಯವನ್ನು ತಿಳಿದ ಮೇಲೆ ಜೀವ ನಾಶವಾಗುತ್ತದೆ ಎಂದು ದುಃಖಿಸುವ
Bibek Debroy (1955–2024)The Bhagavad Gita
(25) ‘It has been said that this has no manifestation, that this cannot be thought of and that this has no transformation.22 Therefore, knowing this to be like that, you should not grieve.’