2.18

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino'prameyasya tasmādyudhyasva bhārata ||
Sri Madhvacharya (1238–1317)Bhagavad Gita Tatparya Nirnaya
शरीरिणां तु देहहान्यादिनाशो विद्यत एव। ‘येन सर्वमिदं ततम्’ इति तस्यैव लक्षणकथनात्। न जीवानां देशतो गुणतश्चपूर्णता। अनिच्छया देहहान्यादेरेव दुःखावाप्तिः सिद्धा। तस्मादनाशिनोऽ- प्रमेयस्य विष्णोः पूजार्थं युध्यस्व। तत्प्रसादाधीनत्वाद्दुःखनिवृत्तेः सुखस्य च। ‘ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः। तेषामहं समुद्धर्ता’ इत्यादेः। जीवपक्षे ‘नित्यस्योक्ता’ इत्युक्तत्वादनाशिन इति पुनरुक्तिः। ‘‘अविनाशि, येन सर्वमिदं ततम्’ इत्युक्तस्यैवानाशिनोऽप्रमेयस्येति प्रत्यभिज्ञानाच्च। ‘इमे देहाः’ इति विशेषणान्नित्यश्चिदानन्दात्मकः स्वरूपभूतो देहो मुक्तानामपि विद्यत इति ज्ञायते। ‘न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः। न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः। सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः॥ प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम्। भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम्॥ विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः’ इति हि भागवते। चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः। भुञ्जते कामतो भोगांस्तदन्तर्बहिरेव च। इति परमश्रुतिः। न च जीवेश्वरैक्यं मुक्तावपि- ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रल-*-ये न व्यथन्ति च’। ‘यो वेद निहितं गुहायां परमे व्योमन्। सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’। ‘एतमानन्दमयमात्मानमुपसङ्क्रम्य। इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्। एतत् सामगायन्नास्ते’। ‘सर्वे नन्दन्ति यशसा(ऽ)गतेन सभासाहेन सख्या सखायः। किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय’। ‘ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु। ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः’। ‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’। ‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’। ‘मुक्ताः प्राप्य परं विष्णुः तद्देहं संश्रिता अपि। तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वकैः। भूपा मनुष्यगन्धर्वा देवाः पितरः एव च। आजानेयाः कर्मदेवास्तत्त्वदेवाः पुरन्दरः। शिवो विरिञ्च इत्येते क्रमाच्छतगुणोत्तराः। मुक्तावपि तदन्ये ये भूपाच्छतगुणावराः न समो ब्रह्मणः कश्चिन्मुक्तावपि कथञ्चन। ततः सहस्रगुणिता श्रीस्ततः परमो हरिः। अनन्तगुणितत्वेन तत्समः परमोऽपि न’। ‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः। कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’। इत्यादि मोक्षानन्तरमपि भेदवचनेभ्यः। न च ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’। ‘यद्वै तन्न पश्यति पश्यन् वै तन्न पश्यति’। ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’। ‘अविनाशित्वान्न तु तद्द्वितीयमस्ति। ततोऽन्यद्विभक्तं यत् पश्येत्’। ‘परमं ब्रह्म वेद ब्रह्मैव भवति’। ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ - इत्यादि वाक्यविरोधः। ‘संज्ञानाशो यदि भवेत् किमुक्त्या नः प्रयोजनम्। मोहं मा प्रापयामास भवानत्रेति चोदितः। याज्ञवल्क्यः प्रियामाह नाहं मोहं ब्रवीमि ते। भूतजज्ञानलोपः स्यान्निजं ज्ञानं न लुप्यते। न च ज्ञेयविनाशः स्यादात्मनाशः कुतः पुनः। स्वभावतः पराद्विष्णोर्विश्वं भिन्नमपि स्फुटम्। अस्वातन्त्र्याद्भिन्नमिव स्थितमेव यदेदृशम्। तदा घ्राणादिभोगः स्यात् स्वरूपज्ञानशक्तितः। तदाऽऽत्मनुभवोऽपि स्यादीश्वरज्ञानमेव च। यदाऽन्यं न विजानाति नात्मानां नेश्वरं तथा। पुरुषार्थता कुतस्तुस्यात् तदभावाय को यतेत्। तस्मात् स्वभावज्ञानेन भिन्ना विष्णुसमीपगाः। भुञ्जते सर्वभोगांश्च मुक्तिरेषा न चान्यथा। यन्न पश्येत् परो विष्णुर्द्वितीयत्वेन स स्वतः। तद्द्वितीयं न भवति प्रादुर्भावात्मकं वपुः। प्रधानपुरुषादन्यद्यत् तस्माद्भिन्नमीश्वरः। विभक्तत्वेन नियतं यस्मात् पश्यति सर्वदा। पश्यन्नेव यतो विष्णुस्तदभेदं न पश्यति। चेतनाचेतनस्यास्य नाभेदोऽस्ति ततोऽमुना। न हि ज्ञानविलोपोऽस्ति सर्वज्ञस्य परेशितुः। ब्रह्माणि जीवाः सर्वेऽपि परब्रह्माणि मुक्तिगाः। प्रकृतिः परमं ब्रह्म परमं महदच्युतः। नैव मुक्ता न प्रकृतिः क्वापि तद्विष्णुवैभवम्। प्राप्नुवन्त्यपि तज्ज्ञानान्निजं ब्रह्मत्वमाप्यते। यद्यस्य परमेशित्वं तदा स्याद्दुःखिता कुतः। दुःखी चेत् कुत ईशत्वमनीशो ह्येव दुःखभाक्। कुतः सर्वविदोऽज्ञत्वं क्व भ्रमोऽप्यज्ञतां विना। तस्मान्नैवेश्वरो जीवस्तत्प्रसादात् तु मुच्यते। अहेयत्वादहंनामा भगवान् हरिरव्ययः। ब्रह्मासौ गुणपूर्णत्वादस्म्यसावसनान्मितेः। आसनादसिनामाऽसौ तेजस्त्वात् त्वमितीरितः। सर्वैः क्रियापदैश्चैवं सर्वैद्रव्यपदैरपि। सर्वगुणपदैश्चैव वाच्य एको हरिः स्वयम्। युष्मत्पदैः प्रातियोग्यात् तद्युतैश्च क्रियापदैः। अस्मत्पदैरान्तरत्वात् क्रियार्थैश्च तदन्वयैः। परोक्षत्वात् तत्पदैश्च मुख्यवाच्यः स एव तु। सर्वान् वेदानधीत्यैव प्रज्ञाधिक्येन हेतुना। श्वेतकेतुरहङ्कारात् प्रायशो नास्मि मानुषः। देवो वा केशवांशो वा नैषा प्रज्ञाऽन्यथा भवेत्। एवं महत्त्वबुद्धैर्वा दर्पपूर्णोऽभ्यगात् पितुः। सकाशमकृताचारं तं दृष्ट्वास्तब्दमज्ञवत्। पितोवाच कुतः पुत्र स्तब्धता त्वामुपागता। प्रायो नारायणं देवं नैव त्वं पृष्टवानसि। यस्मिन् ज्ञाते त्वविज्ञातज्ञानादीनां फलं भवेत्। प्राधान्यात् सदृशत्वाच्च तदधीनमिति स्फुटम्। तत्सृष्टं चेति विज्ञातं फलवद्धि भवेज्जगत्। स्वातन्त्रेणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत्। यथा जैवैकमृत्पिण्डज्ञानादेः सदृशत्वतः। मृण्मयं तदकार्यं च ज्ञातं मृदिति वै भवेत्। यथैव मृत्तिकेत्यादि नित्यनामप्रवेदनात्। वाचाऽरब्धमनित्यं तु ज्ञातं तन्मूलमित्यपि। एवं कारणभूतोऽसौ भगवान् पुरुषोत्तमः। प्रधानश्च स्वतन्त्रश्च तन्मूलमखिलं जगत्। तदाधारं विमुक्तौ च तदधीनं सदा स्थितम्। स सूक्ष्मो व्यापकः पूर्णस्तदीयमखिलं जगत्। तस्मात् तदीयस्त्वमसि नैव सोऽपि कथञ्चन। यथा पक्षी च सूत्रं च नानावृक्षरसा अपि। यथा नद्यः समुद्रश्च यथा वृक्षपरावपि। यथा धानाः परश्चैव यथैव लवणोदके। यथा पुरुषदेशौ च यथाऽज्ञज्ञानदावपि। यथा स्तेनापहार्यौ च तथा त्वं च परस्तथा। भिन्नौ स्वभावतो नित्यं नानायोरेकता क्वचित्। एवं भेदोऽखिलस्यापि स्वतन्त्रात् परमेश्वरात्। परतन्त्रं स्वतन्त्रेण कथमैक्यमवाप्नुयात्। स जीवनामा भगवान् प्राणधारणहेतुतः। उपचारेण जीवाख्या संसारिणि निगद्यते। तदधीनमिदं सर्वं नान्याधीनः स ईश्वरः। जीवेश्वरभिदा चैव जडेश्वरभिदा तथा। जीवभेदो मिथस्चैव जडजीवभिदा तथा। जडभेदो मिथश्चेति प्रपञ्चो भेदपञ्चकः। स नित्य एव नोत्पाद्य उत्पाद्यश्चेन्नशेदपि। तस्मादनादिमानेव प्रकृष्टो भेदपञ्चकः॥ विष्णोः प्रज्ञामितं यस्माद्वैतं न भ्रान्तिकल्पितम्। अद्वैतः परमार्थोऽसौ भगवान् विष्णुरव्ययः। परमत्वं स्वतन्त्रत्वं सर्वशक्तित्वमेव च। सर्वज्ञत्वं परानन्दः सर्वस्य तदधीनता। इत्यादयो गुणा विष्णोर्नैवान्यस्य कथञ्चन। अभावः परमद्वैते सन्त्येव ह्यपराणि तु। विकल्पो विनिवर्तेत कल्पितो यदि केनचित्। अद्वैतं ज्ञानीनां पक्षे न तस्माद्विद्यते क्वचित्। इत्यादिश्रुतिभ्योऽर्थान्तरस्यैवावगतत्वात्। एकपिण्डनामधेयेतिशब्दानां वैयर्थ्यं चान्यथा। न चैकविज्ञानेन सर्वविज्ञानं तत्वक्ष्ये। न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः। नवकृत्वोऽपि भेद एव दृष्टान्तोक्तेश्च। तस्मादतत्वमसीत्येवोच्यते। ऐतदात्म्यामित्येतदात्मसम्बन्धि। त्स्वामिकम्। त्वमपि तदैदात्म्यमेवासि न सोऽसीति वा। तदिति लिङ्गसाम्यं चात्र। अविद्यमानमेवेश्वरं सृष्ट्याधिकं चाप्राप्तमेवात्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यात्? अनुवादोऽपि ‘यदिदं वदन्ति तन्न युज्यत’ इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः। अतिप्रसङ्गश्चान्यथा। अभेदानुवादेन भेदोपदेशः किमिति न स्यात् ? सर्वशाखान्ते भेदोक्तेश्चैतदेव युक्तम्। ‘नासंवत्सरवासिने प्रब्रूयात् नाप्रवक्त्र इत्याचार्या आचार्याः’ ‘अहं विश्वं भुवनमभ्यभवाम्’। ‘अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ब्रह्मविदो विदुः’। ‘नमो विष्णवे महते करोमि’ ‘पश्यन्त्यात्मन्यवस्थितम्’ इत्यादि। न चेश्वरस्तद्भेदो वा प्रत्यक्षादिसिद्धः। तत्पक्षे त्वैक्यादेरपि मिथ्यात्वात् स्वरूपस्य च सिद्धत्वाद्व्यर्थैव श्रुतिः। लक्षितस्वरूपस्यापि न स्वरूपाद्विशेषः। निर्विशेषत्वोक्तेः। मिथ्याविशेषोक्तौ चाप्रामाण्यं श्रुतेः। मिथ्यात्वं च मिथ्यैव तेषाम्। अतः सत्यत्वं सत्यं स्यात्। उपाधिकृत्भेदेऽप्युपाधेर्मिथ्यात्वे त्वप्राप्तमेवोपाधिभेदं प्रापयित्वा पुनर्निषिध्यत इति स एव दोषः। सत्योपाधिपक्षेऽपि हस्तपादाद्युपाधि- भेदेऽपि भोक्तुरेकत्वदृष्टेरेकेनैवेश्वरेण सर्वोपाधिगतं सुखं दुःखं भुज्येतेत्येवमादयो दोषाः समा एव। अचेतनानामनुभवाभावान्न तत्साम्यम्। अतो जीवेश्वरयोर्भेद एवेति सिद्धम् ॥18॥
Swami Sivananda (1887–1963)Bhagavad Gita
18. These bodies of the embodied Self, which is eternal, indestructible and immeasurable, are said to have an end. Therefore, fight, O Arjuna!
Bannanje Govindacharya (1936–2020)Bhagavad Gita Pravachana
ಅಂತವಂತ ಇಮೇ ದೇಹಾಃ ನಿತ್ಯಸ್ಯ ಉಕ್ತಾಃ ಶರೀರಿಣಃ | ಅನಾಶಿನಃ ಅಪ್ರಮೇಯಸ್ಯ ತಸ್ಮಾತ್‌ ಯುಧ್ಯಸ್ವ ಭಾರತ-- ಅಳಿಯದ ಜೀವಕ್ಕೆ ಅಳಿವ ಈ ದೇಹಗಳ ನಂಟು. ಏತರಿದಲೂ ಅವನಿಗೆ ಅಳಿವಿಲ್ಲ. ಅವನು ಎಲ್ಲೆಡೆ ತುಂಬಿದ ಭಗವಂತನ ಪಡಿಯಚ್ಚು. £ ಭಾರತಾ, ಆದ್ದರಿಂದ [ಅಳಿವಿರದ ಅಳವಿಗೆಟುಕದ ಭಗವಂತನ ಪೂಜೆಯೆಂದು] ಹೋರಾಡು. ಭೌತಿಕ ಶರೀರ ಅಂತವಂತ(ನಾಶವಾಗುವಂತಾದ್ದು)ು. ಕೇವಲ ಕಣ್ಣಿಗೆ ಕಾಣುವ ಸ್ಥೂಲ ಶರೀರ ಮಾತ್ರ ನಾಶವಾಗುವುದೇ ಹೊರತು ಆತ್ಮವಲ್ಲ. ಏಕೆಂದರೆ ಜೀವ ಭಗವಂತನ ಪಡಿಯಚ್ಚು. ಅದು ಸರ್ವವ್ಯಾಪಿ ಭಗವಂತನ ಪ್ರತಿಬಿಂಬ. ಆದ್ದರಿಂದ ಎಲ್ಲಾ ಕಡೆ ಇರುವ ಭಗವಂತನ ಪ್ರತಿಬಿಂಬವಾದ ಈ ಜೀವ ನಿತ್ಯ. ಇಲ್ಲಿ ಕೃಷ್ಣ ಅರ್ಜುನನಿಗೆ ಹೇಳುತ್ತಾನೆ: "ಸಾಮ್ರಾಟನಾಗಬೇಕು ಎನ್ನುವ ಸ್ವಾರ್ಥದಿಂದಾಗಲೀ, ದುರ್ಯೋಧನನ ಮೇಲಿನ ದ್ವೇಷದಿಂದಾಗಲೀ ಹೋರಾಡದೇ, "ಅನ್ಯಾಯದ ವಿರುದ್ಧ ಹೋರಾಟ ಭಗವಂತನ ಪೂಜೆ' ಎಂಬಂತೆ ಯುದ್ಧ ಮಾಡು" ಎಂದು. ನಾವು ನಮ್ಮ ದೈನಂದಿನ ಜೀವನದಲ್ಲಿ ಮಾಡುವ ಪ್ರತಿಯೊಂದು ಕರ್ಮ ಕೂಡಾ ಹೀಗೆ. ಅದು ಭಗವಂತನ ಅರ್ಪಣಾ ರೂಪದಲ್ಲಿರಬೇಕು. ನಮಗೆ ದೇಹ ಕೊಟ್ಟಿದ್ದು ಭಗವಂತ. ಆದ್ದರಿಂದ ಆ ದೇಹ ಹೋದಾಗ ಅಳುವ ಅಗತ್ಯವಿಲ್ಲ. ನಮ್ಮ ಪ್ರತಿಯೊಂದು ಕರ್ತವ್ಯವನ್ನು ಭಗವಂತನ ಪೂಜೆ ಎಂದು ಮಾಡಿ, ಸಾವಿಗೆ ಅಂಜದೆ ಬದುಕಿದಾಗ ಈ ಜೀವನ ಸಾರ್ಥಕ.
Bibek Debroy (1955–2024)The Bhagavad Gita
(18) ‘It has been said that all these bodies inhabited by the soul are capable of destruction. But the soul is eternal, incapable of being destroyed and incapable of being established through proof. Therefore, O descendant of Bharata!17 Fight.’